|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.38. अध्यायः 038
Mahabharata - Drona Parva - Chapter Topics
अभिमन्युपराक्रमवर्णनम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-38-0x(4351)(46388)
तथा प्रमथमानं तं महेष्वासानजिह्मगैः।
आर्जुनिं मामकाः सङ्ख्ये के त्वेनं समवारयन्॥ 7-38-1(46389)
सञ्जय उवाच। 7-38-2x(4352)
शृणु राजन्कुमारस्य रणे विक्रीडितं महत्।
बिभित्सतो रथानीकं भारद्वाजेन रक्षितम्॥ 7-38-2(46390)
मद्रेशं सादितं दृष्ट्वा सौभद्रेणाशुगै रणे।
शल्यादवरजः क्रुद्ध क्रिन्बाणान्समभ्ययात्॥ 7-38-3(46391)
स विद्ध्वा दशभिर्बाणैः साश्वयन्तारमार्जुनिम्।
उदक्रोशन्महाशब्दं तिष्ठतिष्ठेति चाब्रवीत्॥ 7-38-4(46392)
तस्यार्जुनिः शिरोग्रीवं पाणिपादं धनुर्हयान्।
छत्रं ध्वजं नियन्तारं त्रिवेणुं चाप्युपस्करम्॥ 7-38-5(46393)
चक्रं युगं च तूणीरं ह्यनुकर्षं सायकैः।
पताकां चक्रगोप्तारौ सर्वोपकरणानि च॥ 7-38-6(46394)
लघुहस्तः प्रचिच्छेद ददृशे तं न कश्चन।
स पपात क्षितौ क्षीणः प्रविद्धाभरणाम्बरः॥ 7-38-7(46395)
वायुनेव महाचैत्यः समूलं चित्रवेदिकः।
अनुगास्तस्य वित्रस्ताः प्राद्रवन्सर्वतो दिशः॥ 7-38-8(46396)
आर्जुनेः कर्म तद्दृष्ट्वा सम्प्रणेदुः समन्ततः।
नादेन सर्वभूतानि साधुसाध्विति भारत॥ 7-38-9(46397)
शल्यभ्रातर्यथारुग्णे बहुशस्तस्य सैनिकाः।
कुलाधिवासनामानि श्रावयन्तोऽर्जुनात्मजम्॥ 7-38-10(46398)
अभ्यधावन्त सङ्क्रुद्धा विविधायुधपाणयः।
रथैरश्वैर्गजैश्चान्ये पद्भिश्चान्ये बलोत्कटाः॥ 7-38-11(46399)
बाणशब्देन महता रथनेमिस्वनेन च।
हुंकारैः क्ष्वेडितोत्कृष्टैः सिंहनादैः सगर्जितैः॥ 7-38-12(46400)
ज्यातलत्रस्वनैरन्ये गर्जन्तोऽर्जुननन्दनम्।
ब्रुवन्तश्च न नो जीवन्मोक्ष्यसे जीवितादिति॥ 7-38-13(46401)
तांस्तथा ब्रुवतो दृष्ट्वा सौभद्रः प्रहसन्निव।
यो योस्मै प्राहरत्पूर्वं तं तं विव्याध पत्रिभिः॥ 7-38-14(46402)
सन्दर्शयिष्यन्नस्त्राणि विचित्राणि लघूनि च।
आर्जुनिः समरे शूरो मृदुपूर्वमयुध्यत॥ 7-38-15(46403)
वासुदेवादुपात्तं यदस्त्रं यच्च धनञ्जयात्।
अदर्शयत तत्कार्ष्णिः कृष्णाभ्यामविशेषवत्॥ 7-38-16(46404)
दूरमस्य गुरुं भारं साध्वसं च पुनः पुनः।
सन्दधद्विसृजंश्चेषून्निर्विशेषमदृश्यत॥ 7-38-17(46405)
चापमण्डलमेवास्य विस्फुरद्दिक्ष्वदृश्यत।
सुदीप्तस्य शरत्काले सवितुर्मण्डलं यथा॥ 7-38-18(46406)
ज्याशब्दः शुश्रुवे तस्य तलशब्दश्च दारुणः।
महाशनिमुचः काले पयोदस्येव निःस्वनः॥ 7-38-19(46407)
हीमानमर्षी सौभद्रो मानकृत्प्रियदर्शनः।
सम्मिमानयिषुर्वीरानिष्वस्त्रैश्चाप्ययुध्यत॥ 7-38-20(46408)
मृदुर्भूत्वा महाराज दारुणः समपद्यत।
वर्षाभ्यतीतो भगवाञ्शरदीव दिवाकरः॥ 7-38-21(46409)
शरान्विचित्रान्सुबहून्रुक्मपुङ्खाञ्शिलाशितान्।
मुमोच शतशः क्रुद्धो गभस्तीनिव भास्करः॥ 7-38-22(46410)
क्षुरप्रैर्वत्सदन्तैश्च विपाठेश्च महायशाः।
नाराचैरर्धचन्द्राभैर्भल्लैरञ्जलिकैरपि॥ 7-38-23(46411)
अवाकिरद्रथानीकं भारद्वाजस्य पश्यतः।
ततस्तत्सैन्यमभवद्विमुखं शरपीडितम्॥ ॥ 7-38-24(46412)
इति श्रीमन्महाभारते द्रोणपर्वणि अभिमन्युवधपर्वणि त्रयोदशदिवसयुद्धे अष्टत्रिंशोऽध्यायः॥ 38 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-38-5 तल्पं इति पाठे रथगतशय्याम्॥ 5-38-10 अधिवासो निवासः॥ 5-38-16 अविशेषवत्तुल्यमित्यर्थः॥ 5-38-17 अस्य निरस्य॥ 5-38-38 अष्टत्रिंशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|